________________
सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया-अध्ययनविशेषाः सङ्ग्रहैककेन संगृहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते-यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्तते तस्माद्भावैककेनाधिकार इति गाथार्थः॥ इदानीं यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाह
णाम ठवणा दविए खित्ते काले तहेव भावे अ । एसो खलु निक्खेवो दसगस्स उ छब्विहो होइ ॥९॥ व्याख्या-आह-किमिति द्यादीन् विहाय दशशब्दः उपन्यस्तः?, उच्यते, एतत्प्रतिपादनादेव यादीनां गम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः वक्ष्यति च-'बाला किड्डा मंदे' त्यादिना, भावदशकं दश भावाः, ते च सान्निपातिकभावे स्वरूपतो भावनीयाः, अथ चैत (वैत) एव विवक्षया दशाध्ययनविशेषा इति, 'एष एवंभूतः खलु |'निक्षेपों न्यासो दशशब्दस्य बहुवचनान्तत्वाद्दशानां षड्डिधो भवति, तत्र खलुशब्दोऽवधारणार्थः, एष एव प्रक्रान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-नायं दशशब्दमात्रस्य, किन्तु तद्वाच्यस्यार्थस्या-13॥ पीति गाथार्थः ॥ साम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाह
बाला किड्डा मंदा बला य पन्ना य हायणि पवंचा । पन्भार मम्मुही सायणी य दसमा उ कालदसा ॥ १०॥ व्याख्या-बाला क्रीडा च मन्दा च बला (च) प्रज्ञा च हायिनी ईषत्प्रपश्चा प्रारभारा मृन्मुखी शायिनी
SAIRANCANGASASSASSAIGOSOSATEX
Jain Education
For Private Personal Use Only
ainelibrary.org