SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ ७ ॥ Jain Education धेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैककः' शालिरिति, अयमत्र भावार्थ:-सङ्ग्रहः - समुदायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यौ, 'पर्यायैककः' एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं स चानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति । अन्ये तु समस्त श्रुतस्क - न्धवस्त्वपेक्षयेत्थं व्याचक्षते - अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकाख्य इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरिति व्याचष्टे, न चैतदतिचारु, दशकालिका| भिधानत एवादेशसिद्धेः । 'भावैकैकः' एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति । १ पदेष्वपि प्र० २ चूर्णौ – अणाइ दसगालियं आइ दुमपुप्फिअं सामण्णपुव्वियं एवमादि. ३ उदयभावेकगं दुविहं - अणाइनं उदइओ भावो आइ पसत्थमपसत्थं च तत्थ पसत्थेक्कगं तित्थगरनामगोत्तस्स कम्मस्स उदओ एवमादी, अपसत्येकगं कोहोदओ एवमादि । इयाणि उवसमियखइयखओवसमिया, ते तिष्णिवि भावेकगा णिच्छयणयस्स पसत्यगा चेव, एतेसि अपसत्यो पडिवक्लो णत्थि, कम्हा ?, जम्हा मिच्छद्दिहीणं केइ कम्मंसा खीणा केइ उवसंता, खओवसमेण य कल्लाणबुडी पाडवादिणो गुणा संतावि तेसिं विपरीयगाहित्तणेणं उम्मत्तवयणमिव अप्पमाणं चेव, तम्हा उवसमिअखइअखओवसमिभा भावा सम्मद्दिद्विणो चेव लब्भंति । परिणामिअभावेकगं दुविहं अणाइनं परिणामिओ भावो, आइनं दुविहं- सादिपरिणामिएक्कगं च अणाइपरिणामिएक्कगं च तत्थ साइपरिणामिएक्कगं जहा कसायपरिणओ एवमादी, अणाइपरिणामिएक्कगं जहा जीवो जीवभावेण निःश्चमेव परिणओ । एत्थ कयरेण एक्केण अहिगारो ?, भद्दियायरिओवएसेण – संगहेक्कगेण दत्तिलायरिओवएसेण भावेक्कगेणं अहिगारो, दोण्णिवि एते आएसा अविरुद्धा । इति चूर्णिः. For Private & Personal Use Only १ द्रुमपु ष्पिका० एककनि क्षेपः 119 11 jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy