SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ दश. २ Jain Education In दसकालियंति नामं संखाए कालओ य निद्देसो । दसकालियसुअखंधं अज्झयणुद्देस निक्खिविडं ॥ ७ ॥ व्याख्या- 'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं यत् 'नाम' अभिधानं, इदं किम् ? - संख्यानं संख्या तया, तथा 'कालतश्च' कालेन चायं - 'निर्देश:' निर्देशनं निर्देशः, विशेषाभिधानमित्यर्थः, अस्य च निबन्धनं विशेषेण वक्ष्यामः 'मणगं पडुच' इत्यादिना ग्रन्थेन, यतश्चैवमतः 'दसकालिय'ति कालेन निर्वृत्तं कालिकं | दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्ययनं 'उद्देशं' तदेकदेशभूतं किम् ? - निक्षेप्तुमनुयोगोऽस्य कर्त्तव्य इति गाथार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायादधिकृत शास्त्राभिधानोपयोगित्वाच्च दशशब्दस्यैवादो निक्षेपः प्रदर्श्यते-तत्र दशैकाद्यायत्ता वर्त्तन्ते, एकाद्यभावे दशानामप्यभावाद्, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽह णामं ठवणा दविए माउयपयसंगकए चेव । पज्जवभावे य तहा सत्तेए एक्कगा होंति ॥ ८ ॥ व्याख्या - इहैक एव एककः, तत्र 'नामैककः' एक इति नाम 'स्थापनैककः' एक इति स्थापना, 'द्रव्यैकर्क' त्रिधा - सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यं, अचित्तमेकं रूपकद्रव्यं, मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति, 'मातृकापदैककम् एकं मातृकापदं, तद्यथा - 'उपपन्ने इ वे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा - "उप्पन्ने इ वा विगमे इ वा धुवे इ वा" अमूनि च (वा) मातृकापदानि " अ आ इ ई" इत्येवमादीनि, सकल शब्दव्यवहारव्यापकत्वान्मात कापदानि इह चाभि For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy