________________
त्तत्त्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः॥१४९॥ उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, ता चेदम्-क्रियैव प्रधान, ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह
___णायंमि गिहियव्वे अगिहियव्वंमि चेव अत्थंमि । जइयध्वमेव इइ जो उवएसो सो नओ नामं ॥ १४९ ॥ अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्य[र्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्राप्स्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम् , यत उक्तम्-"चेयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुजमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-"सुबहंपि सुयमहीयं किं काही चरणविप्पमुक्कस्स? । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम् ,
१ चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता ॥१॥२ सुबहुकमपि श्रुतमधीतं किं करिष्यति चरणविप्रमु| कस्य ? । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोव्यपि ॥१॥
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org