SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १ द्रुमपु दशवैका० हारि-वृत्तिः ष्पिका ज्ञानक्रि यानयो | त्यर्थः । इत्थं चैतदङ्गीकर्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् ॥१॥” तथाऽऽमु[ष्मिकफलप्राप्यर्थिनापि ज्ञात एव यतितव्यम् , तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही?, किंवा णाहिति छेयपावगं? ॥१॥” इतश्चैतदेवाङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीयत्थो या विहारो बीओ गीयत्थमीसिओ चेव । इत्तो तइयविहारो णाणुनाओ जिणवरेंहि ॥१॥” यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकम(प्य)ङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम् , यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पनमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् इति जो उवएसो सो णओ णामति 'इति' एवमुक्तेन न्यायेन य उपदेशो-ज्ञानप्राधान्यख्यापनपरः स नयो नाम-ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कायेंत्वात्तदाय १प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति ! किं वा ज्ञास्यति छेकपापकम् ॥१॥ २ गीतार्थश्च विहारो द्वितीयो गीतार्थमित्रितश्चैव । इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ १॥ ॥८ in Educhland For Private & Personal Use Only TAjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy