________________
Jain Education
ऽयमित्यत आह- 'प्रतिज्ञाहेत्वोः पुनर्वचनं' पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः ॥ १४८ ॥ उक्तं द्वितीयं दशा-वयवं साधनाङ्गता चावयवानां विनेयापेक्षया विशिष्टप्रतिपत्तिजनकत्वेन भावनीयेति । उक्तोऽनुगमः, सा|म्प्रतं नया उच्यन्ते-ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्द समभिरूढैवंभूतभेदभिन्नाः खल्वोघतः सप्त भ वन्ति, खरूपं चैतेषामध आवश्यकसामायिकाध्ययने न्यक्षेण प्रदर्शितमेवातो नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते- ज्ञाननयः क्रियानयश्च तत्र ज्ञाननयदर्शनमिदम् - ज्ञानमेव प्रधान मैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह
णायंमि गिण्हियव्वे अगिण्ह्यिव्वंमि चेव अत्यंमि । जइयव्वमेव इइ जो उवएसो सो नओ नामं ॥ १४९ ॥ व्याख्या- 'णामिति ज्ञाते सम्यक्परिच्छिन्ने 'गिहियव्वे 'ति ग्रहीतव्य उपादेये 'अगिहियव्वंमित्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः उपेक्षणीयसमुचयार्थी वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः - ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये चार्थे तु ज्ञात एव नाज्ञाते, 'अत्यंमि' त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रकूचन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयः तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'यतितव्यमेवेति अनुखारलोपाद्यतितव्यम्, एवम् अनेन प्रक्रमेणैहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इ
For Private & Personal Use Only
w.jainelibrary.org