SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १ द्रुमपु पिका० स्थितपक्षः दशवैका०चारित्रं क्रियेत्यनन्तरम् , क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा(याव)दखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरो चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफल॥८१॥ प्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो णओ णामति 'इति' एवमुक्तेन न्यायेन य उपदेशः किम् ?क्रियाप्राधान्यख्यापनपरः स नयो नाम-क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारू|पमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति |गाथार्थः॥ १४९ ॥ उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयखरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसंभवाद, आचार्यः पुनराह-अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन् पुनराह सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ १५ ॥ व्याख्या-'सर्वेषामिति मूलनयानामपिशब्दात्ततेदानां च द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसंमतं वचनं 'यच्चरणगुणस्थितः साधुः' यस्मात्सर्वनया ४ एव (सर्वेऽपि नया)भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ॥१५० ॥ ARRRRRR an Education Internation For Private Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy