________________
Jain Education Inter
व्याख्या - सुरा - देवास्तैः पूजितः सुरपूजितः, सुरग्रहणमिन्द्राद्युपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयम् ?'हेतु:' पूर्ववत्, हेत्वर्थसूचकं वेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः अस्यैव सिद्धतां दर्शयति - 'धर्मः' पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानं च धर्मस्थानम्, स्थानम् - आलय:, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् क्रियया सह योक्ष्यते, 'यद्' यस्मात्, किंभूते धमस्थाने ? - 'परमे' प्रधाने, किम् ? - सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इति तृतीयोऽवयवः, अधुना चतुर्थ उच्यते- हेतुविभक्तिरियम् - हेतुविषयविभागकथनम्, अथ क एते धर्मस्थाने स्थिता इत्यत्राह - 'निरुपधयः' उपधिः छद्म मायेत्यनर्थान्तरम्, अयं च क्रोधाद्युपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्व एव कषाया ये भ्यस्ते निरुपधयो - निष्कषाया', 'जीवानां' पृथ्वीकायादीनाम् 'अवधेन' अपीडया, चशब्दात्तपश्चरणादिना च हेतुभूतेन 'जीवन्ति' प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः ॥ १३९ ॥ उक्तचतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराह
जिणवयणपदुट्ठेवि हु ससुराईए अधम्मरुइणोऽवि । मंगलबुद्धीइ जणो पणमइ आईदुयविवक्खो ॥ १४० ॥
व्याख्या - इह विपक्षः पञ्चम इत्युक्तम् स चायम्-प्रतिज्ञाविभक्त्योरिति, जिना:- तीर्थकराः तेषां वचनम् - आगमलक्षणं तस्मिन् प्रद्विष्टा - अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हु इत्ययं निपातोऽवधा -
१ विपक्षः प्रतिज्ञाविभक्त्योः सत्कः.
For Private & Personal Use Only
Finelibrary.org