________________
१दुमपुपिका. दशाव
दशवैकारणार्थः अस्थानप्रयुक्तश्च, स्थानं तु दर्शयिष्यामः, श्वशुरादीन्' श्वशुरो-लोकप्रसिद्धः, आदिशब्दात्पित्रादिहारि-वृत्तिः परिग्रहः, न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान्, अपिशब्दाद्धर्मरुचीनपि, किम् ?-'मङ्गलवुद्ध्या' मङ्गल
प्रधानया धिया, मङ्गलबुद्ध्यैव नामङ्गलबुद्ध्येत्येवमवधारणस्थानम्, किम्?-'जनों लोकः, प्रकर्षेण नमति प्रणमति, 'आद्यद्वयविपक्ष' इति अत्राद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च तस्य विपक्षः साध्यादिविपर्यय इति आद्यद्वयविपक्षः, तत्राधर्मरुचीनपि मङ्गलबुद्ध्या जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह, तेषामधर्माव्यतिरेकात्, जिनवचनप्रद्विष्टानपीत्यनेन तु तच्छुद्धेः, तत्रापि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः ॥१४॥
• ॥ ४० ॥ बिइयदुयस्स विवक्खो सुरेहिँ पूजंति जण्णजाईवि । बुद्धाईवि सुरणया वुच्चन्ते णायपडिवक्खो ॥ १४१॥ व्याख्या-द्वयोः पूरणं द्वितीयं द्वितीयं च तद्वयं च द्वितीयद्वयं-हेतुस्तच्छुद्धिश्च, इदं च प्रागुक्तद्वयापेक्षया द्वितीयमुच्यते, तस्यायं विपक्षः-इह सुरैः पूज्यन्ते यज्ञयाजिनोऽपीति, इयमत्र भावना-यज्ञयाजिनो हि मङ्गलरूपा न भवन्त्यथ च सुरैः पूज्यन्ते ततश्च सुरपूजितत्वमकारणमिति, एष हेतुविपक्षा, तथा अजितेन्द्रियाः सोपधयश्च यतस्ते वर्तन्ते अतोऽनेनैव ग्रन्थेन 'धर्मस्थाने स्थिताः परम' इत्यादिकाया हेतुविभक्तेरपि विपक्ष उक्तो वेदितव्य इति । उदाहरणविपक्षमधिकृत्याह-बुद्धादयोऽप्यादिशब्दात्कपिलादिपरिग्रहः, ते किम् ?-'सुरनता' देवपूजिता 'उच्यन्ते' भण्यन्ते तच्छासनप्रतिपन्नैरिति ज्ञातप्रतिपक्ष इति गाथार्थः ॥१४१॥ आह-ननु दृष्टान्तमुपरिष्टाद्वक्ष्यति, एवं ततश्च तत्वरूप उक्ते तत्रैव विपक्षस्तत्प्रतिषेधश्च वक्तुं युक्तः तत्किमर्थमिह विपक्षः तत्म
5522
७६॥
Jain Educational
For Private
Personal use only
(M
ainelibrary.org