________________
दिगम्बरभिक्षुभौतादिवत्, इह ये स्थावरजङ्गमभूतोपरोधपरिहारिणस्ते उभयप्रसिद्वैवंविधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टाः, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः, तस्मात्स्थावरजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते ॥१३६ ॥ एवमर्थाधिकारद्वयवशात् पञ्चावयवदशावयवाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम् , इदानीं भूयोऽपि भयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे नियुक्तिकारः
ते उ पइन्न विभत्ती हे विर्भती विवक्खपंडिसेहो। "दिलुतो आँसंका तप्पंडिसेहो निगमणं च ॥ १३७॥ __व्याख्या-ते' इति अवयवाः, तुः पुनःशब्दार्थः, ते पुनरमी प्रतिज्ञादयः-तत्र प्रतिज्ञानं प्रतिज्ञा-वक्ष्यमाणखरूपेत्येकोऽवयवः, तथा विभजनं विभक्तिः-तस्या एव विषयविभागकथनमिति द्वितीयः, तथा हिनोतिगमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववचतुर्थः, तथा| विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः, तथा आशङ्कनमाशङ्का प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः, तथा तत्पतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः, चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः ॥१३७॥ व्यासार्थ तु प्रत्यवयवं वक्ष्यति ग्रन्थकार: एव, तथा चाह
ॐ5*5*35******52655
Jain Education in
a
l
For Private & Personal Use Only
OM.jainelibrary.org