________________
तम्हा दयाइगुणसुट्ठिएहिं भमरोब्व अवहवित्तीहि । साहूहिं साहिउ त्ति उक्टुिं मंगलं धम्मो ॥ १३२ ॥ व्याख्या-तस्माद्दयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमर इवावधवृत्तिभिः, कै?-साधुभिः 'साधितो' निष्पादितः, 'उत्कृष्टं मङ्गलम्' प्रधानं मङ्गलं 'धर्मः' प्राग्निरूपितशब्दार्थ इति गाथार्थः ॥१३२॥ इदानीं निगमनविशुद्धिमभिधातुकाम आह
निगमणसुद्धी तित्यंतरावि धम्मत्थमुज्जया विहरे । भण्णइ कायाणं ते जयणं न मुणंति न करेंति ॥ १३३ ॥ व्याख्या-निगमनशुद्धिः प्रतिपाद्यते, अत्राह-तीर्थान्तरीया अपि' चरकपरिव्राजकादया, किम् ?-'धर्मार्थ धर्माय 'उद्यता' उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः। भण्यतेऽत्र प्रतिवचनम्, 'कायानांत पृथिव्यादीनां 'ते' चरकादयः, किम् ?-यतनां-प्रयत्नकरणलक्षणां'न मन्यन्ते(मुणन्ति) न जानन्ति न मन्वते वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थः॥१३॥ किंच
___ न य उग्गमाइसुद्धं भुजंती महुयरा वऽणुवरोही । नेव य तिगुत्तिगुत्ता जह साहू निच्चकालंपि ॥ १३४ ॥ व्याख्या-न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहः, 'मधुकरा इव' भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो, नैव च त्रिगुप्सिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवति-यथा साधवो
१ यथा साधवोऽनुपरोधिनः सन्तो भ्रमरा इव उद्गमादिशुद्धं भुजते न तथा ते चरकादयः न च त्रिगुप्तिगुप्ता यथा साधवः,
Jan Education
For Private 3 Personal Use Only