________________
ॐॐॐॐॐॐ
व्याख्या-उपमा खलु 'एषा' मधुकरसमेत्यादिरूपा कृता 'पूर्वोक्तात् पूर्वोक्तेन 'देशलक्षणोपनयाद' देशलसाक्षणोपनयेन, यथा चन्द्रमुखी कन्येति, तृतीयार्था चेह पञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इदं च भावय(यिष्य)त्येवेति गाथार्थः ॥ १२६ ॥
___जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । जह भमरा तह मुणिणो नवरि अदत्तं न भुंजंति ॥ १२७ ॥ व्याख्या-यथा 'दुमगणाः' वृक्षसङ्घाताः खभावत एव पुष्पफलनखभावाः तथैव 'नगरजनपदा' नगरादिलोकाः खयमेव पचनपाचनखभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थ वक्ष्यति, तथा मुनयो नवरम्-एतावाविशेष:-अदत्तं खामिभिर्न भुञ्जन्त इति गाथार्थः ॥ १२७ ॥ अमुमेवार्थ स्पष्टयति
कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ । भत्तं सहावसिद्धं समणसुविहिया गवेसंति ॥ १२८॥ ___ व्याख्या-'कुसुमे पुष्पे 'खभावफुल्ल' प्रकृतिविकसिते 'आहारयन्ति' कुमुमरसं पिबन्ति 'भ्रमरा' मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः 'तथा' तेनैव प्रकारेण 'भक्तम् ओदनादि 'खभावसिद्धम् आत्मार्थ कृतम् उद्गमादिदोषरहितम् इत्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः-शोभनानुष्ठानवन्त इत्यर्थः 'गवेषयन्ति' अन्वेषयन्तीति गाथार्थः ॥ १२८ ॥ साम्प्रतं पूर्वोक्तो यो दोषः मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाह
उवसंहारो भमरा जह तह समणावि अवहजीवित्ति । दंतत्ति पुण पयंमी नायव्वं वक्कसेसमिणं ॥ १२९ ॥.
***-*-*-*-56443
दका. १३,
Jain Education in
For Private & Personal Use Only
R
ainelibrary.org