________________
दाणेति दत्तगिण्हण भत्ते भज सेव फासुगेण्हणया । एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा ॥ १२३ ॥ व्याख्या-'दानेति' सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम् , दत्तमेव गृह्णन्ति, नादत्तम् , 'भक्त' इति भक्तग्रहणं "भज सेवायाम्' इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणं, प्रामुकम्-आधाकर्मादिरहितं गृह्णन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम् , 'एषणात्रितये' गवेषणादिलक्षणे 'निरताः' सक्ताः, उपसंहारस्य-उपनयस्य शुद्धिः 'इयं वक्ष्यमाणलक्षणेति गाथार्थः॥१२३ ॥
अवि भमरमहुयरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवन्तो नादिन्नं भोत्तुमिच्छति ॥ १२४ ॥ | व्याख्या-अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापि स्त्रीसंग्रहार्थ, जातिसंग्रहार्थमिति चान्ये, अवि
दत्तं सन्त, किम् ?-आपिबन्ति 'कुसुमरसं' कुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेष इति गाथार्थः ॥१२४॥ साम्प्रतं सूत्रेणैवोपसंहारविशुद्धिरुच्यते-कश्चिदाह-दाणभत्तेसणे रया'
इत्युक्तम् , यत एवमत एवं लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपनरोधः, अग्रहणे खवृत्त्यलाभ इति, अत्रोच्यते
वयं च वित्तिं लब्भामो, न य कोइ उवहम्मइ । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥ अस्य व्याख्या-वयं च वृत्ति 'लप्स्यामः' प्राप्स्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्या-15
Jain Education
a l
For Private Personal Use Only