________________
दशवैका ० हारि-वृत्तिः
॥ ७१ ॥
Jain Education In
व्याणि च तानि पुद्गलद्रव्याणि द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलाः कैश्चिदद्रव्याः सन्तोsभ्युपगम्यन्ते, 'सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः पुद्गलानां परमार्थसद्रूपताख्यापनार्थं द्रव्यग्र - हणम्, वाशब्दो विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहङ्गमा इति । तत्र जीवानधिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच्च गमनमेषां स्वतः परतश्च संभवति, अत्र स्वतः परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एष भावविहङ्गमः, कथम् ? – 'गुणसिद्ध्या' अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाथार्थः ॥ १२१ ॥ एवं गुणसिद्ध्या भावविहङ्गम उक्तः, साम्प्रतं संज्ञासिद्ध्या अभिधातुकाम आह
सन्नासिद्धिं पप्पा विहंगमा होंति पक्खिणो सव्वे । इह पुण अहिगारो विहासगमणेहि भमरेहिं ॥ १२२ ॥ व्याख्या - संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धि:, संज्ञासम्बन्ध इतियावत्, तां | संज्ञासिद्धिं 'प्राप्य' आश्रित्य किम् ? - विहे गच्छन्तीति विहङ्गमा भवन्ति, के? - पक्षा येषां सन्ति ते पक्षिणः, 'सर्वे' समस्ता हंसादयः, पुद्गलादीनां विहङ्गमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारं विहङ्ग - ममभिधाय प्रकृतोपयोगमुपदर्शयति- 'इह' सूत्रे, पुनः शब्दोऽवधारणे, इहैव नान्यत्र 'अधिकार' प्रस्तावः प्रयोजनम्, कैरित्याह - विहायोगमनैः' आकाशगमनैः 'भ्रमरेः' षट्पदैरिति गाथार्थः ॥ १२२ ॥
१ पुगलद्रव्याणां नपुंसकत्वादत्र पुंस्त्वनिर्देशः प्राकृतत्वात् २ तृतीयां प्रथमेति.
For Private & Personal Use Only
१ द्रुमपुष्पिका०
विहङ्गम
निक्षेपाः
॥ ७१ ॥
Jainelibrary.org