________________
ॐॐॐॐॐॐॐॐ545
स्वात्, अवेदकाश्च सिद्धा इति । 'विहङ्गमाः प्राप्य विहायोगतिमिति, अत्र विहे विहायोगतेरुदयादुद्गच्छन्तीति विहङ्गमाः,'प्राप्य आश्रित्य, किं प्राप्य ?-विहायोगतिम् विहायोगतिरुक्ता तां, विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि-विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति गाथार्थः॥१२० ॥ अधुना द्वितीयकर्मगतिभेदमधिकृत्याह
चलनकम्मगई खलु पडुच्च संसारिणो भवे जीवा । पोग्गलवाई वा विहंगमा एस गुणसिद्धी ॥ १२१ ॥ __व्याख्या-चलनं-स्पन्दनं, तेन कर्मगतिर्विशेष्यते, कथम् ?-चलनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति-कर्मशब्देन क्रियाभिधीयते, सैव गतिशब्देन सैव चलनशब्देन च । तत्र गतेर्विशेषणं क्रिया क्रियाविशेषणं चलनम् । कुतः?-व्यभिचाराद, इह गतिस्तावन्नरकादिका भवति अतः क्रियया विशेप्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम् , अनुखारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगतिं, 'प्रतीत्य' | आश्रित्य, किम् ?-संसरणं संसारः, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति संसारिणः, | अनेन सिद्धानां व्युदासः, 'भवे इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्ता, 'जीवा' उपयोगादिलक्षणाः ।। ततश्चायं वाक्यार्थ:-चलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहं गच्छन्ति-चलन्ति । सर्वैरात्मप्रदेशैरिति विहङ्गमाः । तथा 'पुद्गलद्रव्याणि वेत्यादि, पूरणगलनधर्माणः पुद्गलाः, पुद्गलाश्च ते द्र
Join Education in
For Private & Personal Use Only
R
N
.jainelibrary.org