SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ दशवैका हारि-वृत्तिः १ दुमपुप्पिका विहङ्गमनिक्षेपाः ॥७ ॥ गतिः, तत्र 'भावगतिं प्राप्य अस्तिकायास्तु' इति अत्र भावगतिः पूर्ववत्तां प्राप्य-अभ्युपगम्याश्रित्य, किम् ? अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिमेव प्राप्य न पुनः कर्मगतिं, 'सर्वे विहङ्गमाः खलु' सर्वे-चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति विहं गच्छन्त्यवतिष्ठन्ते खसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचिन्न विहङ्गमा इति । 'कर्मगते' प्राग्निरूपितशब्दार्थायाः, किम्?-'इमौ भेदो वक्ष्यमाणलक्षणाविति गाथार्थः॥ ११९ ॥ तावेवोपदर्शयन्नाह विहगगई चलणगई कम्मगई उ समासओ दुविहा । तदुदयवेययजीवा विहंगमा पप्प विगगई ॥ १२ ॥ व्याख्या-इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि-आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने वर्तते, चलनं स्पन्दनमित्येकोऽर्थः, चलनं च तद्गतिश्च सा चलनगतिः-गमनक्रियेति भावः। कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र 'तदुदयवेदकजीवा' इति, अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्या-विहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकाः तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफल ॥७०॥ Jain Education For Private Personal use only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy