SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठति स्म प्रतिष्ठित:-प्रकर्षेण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-'लोक' लोक्यत इति लोकः, केवलज्ञानभाखता दृश्यत इत्यर्थः, इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्याधारत्वेन निर्दिष्टत्वाचत्वार एवास्तिकाया गृह्यन्ते, यतो नियुक्तिकारेणाभ्यधायि-'तत्प्रतिष्ठितो लोक', 'विहङ्गमः स' इत्यत्र विहे-नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरयमनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः, स इति-चतुरस्तिकायात्मकः, 'भावार्थ' इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह-'वा गतिर्दिविधेति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु द्रष्टव्यः-गतिर्वा द्विविधेति, तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ॥११॥ तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह भावगई कम्मगई भावगई पप्प अस्थिकाया उ । सव्वे विहंगमा खलु कम्मगईए इमे भेया ॥ ११९॥ - व्याख्या-भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येतेषु खगता उत्पादविगमध्रौव्याख्याः हपरिणामविशेषा इति भावा-अस्तिकायास्तेषांगतिः-तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारिभाषिकम् , क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति in Educator For Private & Personal Use Only Paww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy