SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ A A दशवैका |न्धवाचकः, तथा च लोकेऽपि “सिद्धिर्भवतु" इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या १ द्रुमपुहारि-वृत्तिः हेतुभूतया, किम् ?–'द्विविधो' द्विप्रकारः, गुणसिद्ध्या-अन्वर्थसम्बन्धेन तथा संज्ञासिद्ध्या च-यदृच्छाभिधान पिका० योगेन च । आह-यद्येवं द्विविध इति न वक्तव्यम् , गुणसंज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव है विहङ्गमप्रकारेणेह दैविध्यं, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥११७ ॥ तत्र 'यथोद्देशं निर्देश निक्षेपाः इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गमस्तमभिधित्सुराह विहमागासं भण्णइ गुणसिद्धी तप्पइट्ठिओ लोगो । तेण उ विहङ्गमो सो भावत्थो वा गई दुविहा ॥ ११८ ॥ व्याख्या-विजहाति-विमुञ्चति जीवपुद्गलानिति विहं, ते हि स्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्च्यवन्ते, ताँश्च्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुश्चत्येव (इति) मा भूत् संदेह इत्यत आह-आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्ते-दीप्यन्ते खधर्मोपेता आत्मादयो यत्र तदाकाशम्, किम् ?-संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह-'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयावस्थाने प्रयुक्तम्, संबन्धश्चास्य 'तेन तु विहंगमः स' इत्यत्र तेन वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थ:-तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यते तेनैव कारणेन गुणसिद्ध्या-अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत? इत्याह-तत्प्रतिष्ठितो लोक तदित्यनेनाकाशपरामर्शः, १ भेदेनेति प्र. २ विहङ्गमा० प्र. AAA-%9A-%ARSA Jain Education in For Private & Personal Use Only ALId.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy