SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Jain Education In +16 गृह्यते, म पुनराकाशादि, तस्यामूर्त्तत्वेन धारणायोगात्, संसारिजीवस्य च कथञ्चिन्मूर्त्तत्वेऽपि प्रकृतानुपयोगित्वात्, तथाहि - यदसौ भवान्तरं नेतुमलं यच्च विहङ्गमहेतुतां प्रतिपद्यते तदत्र प्रकृतं न चैवमन्यः संसारिजीव इति, 'तं द्रव्यविहङ्गम' मित्यत्र यत्तदोर्नित्याभिसंबन्धादन्यतरोपादाने नान्यतरपरिग्रहादयं वाक्यार्थ उपजायते - धारयत्येव तद्रव्यं यस्तं द्रव्यविहङ्गममिति, द्रव्यं च तद्विहङ्गमश्च स इति द्रव्यविहङ्गमः, द्रव्यं जीवद्रव्यमेव, विहङ्गमपर्यायेणाऽऽवर्तनादू, विहङ्गमस्तु कारणे कार्योपचारादिति, तं 'विजानीहि' अनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि 'भावे विहङ्गम' इत्यत्रायं भावशब्दो बहर्थः, कचिद्रव्यवाचकस्तद्यथा 'नासओ भुवि भावस्स, सद्दो हवइ केवलो' भावस्य - द्रव्यस्य वस्तुन इति गम्यते, कचिच्छुलादिष्वपि वर्त्तते - "जं जं जे जे भात्रे परिणमइ" इत्यादि यान् २ शुक्लादीन् भावानिति गम्यते, कचिदौदयिका|दिष्वपि वर्तते यथा - 'ओइए ओवसमिए' इत्याद्युक्त्वा 'छैव्विहो भावलोगो उ' औदयिकादय एव भावा लोक्यमानत्वाद् भावलोक इति, तदेवमनेकार्थवृत्तिः सन्नौदयिकादिष्वेव वर्तमान इह गृहीत इति, भवनं भावः भवन्त्यस्मिन्निति वा भावः तस्मिन् भावे- कर्मविपाकलक्षणे, किम् ? – 'विहङ्गमो' वक्ष्यमाणशब्दार्थः, पुनः शब्दो विशेषणे, न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेषयति, गुणश्च संज्ञा च गुणसंज्ञे गुणः - अन्वर्थः संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्ब१ नासतो भुवि भावस्य शब्दो भवति केवल:. यययान्यान् भावान् परिणमति ३ औदयिक औपशमिकः ४ षड्विधो भावलोकः. For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy