SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ५ दशवैका हारि-वृत्तिः ॥६८॥ विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त इत्येतदाह, साधयन्तीति साधवः, किं साधयन्ति?-ज्ञानादीति ग-18 |१दुमपुम्यते । अत्राह-ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम्, अत्रोच्यते, इह व्यवहारेण निहवा अपि मुक्ता भ-3 प्पिका. वन्त्येव न च ते साधव इति तद्व्यवच्छेदार्थत्वान्न दोषः। आह-न च ते 'सदैवसन्ती'त्यनेनैव व्यवच्छिन्ना दशावयवे इति, उच्यते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः, अथवा-अन्यथा व्याख्यायते-ये लोके सन्ति साधव | दृष्टान्तइत्यत्र य इत्युद्देशः, लोक इत्यनेन समयक्षेत्र एव नान्यत्र, किम्?-शान्ति:-सिद्धिरुच्यते तां साधयन्तीति शुद्धिः शान्तिसाधवः, तथा चोक्तं नियुक्तिकारेण-"संति विजंतित्ति य संतिं सिद्धिं व साहेति" इदं व्याख्यातमेव । 'विहंगमा इव' भ्रमरा इव पुष्पेषु, किम् ?-दानभक्तैषणासु रताः' दानग्रहणाद्दत्तं गृह्णन्ति नादत्तम्, भक्तग्रहणेन तदपि भक्तं प्रासुकं न पुनराधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु 'रता' सक्ता इति सूत्रसमासार्थः । अवयवार्थ सूत्रस्पर्शिकनियुक्त्या प्रतिपादयति-तत्रापि च विहङ्गमं व्याचष्टे-स द्विविधः-द्रव्यविहङ्गमो भावविहङ्गमश्च । तत्र तावद्रव्यविहङ्गमं प्रतिपादयन्नाह धारेइ तं तु दव्वं तं दव्वविहङ्गमं वियाणाहि । भावे विहंगमो पुण गुणसन्नासिद्धिओ दुविहो ॥ ११७ ॥ व्याख्या-'धारयति' आत्मनि लीनं धत्ते तत्तु 'द्रव्य'मित्यनेन पूर्वोपात्तं कर्म निर्दिशति, येन हेतुभूतेन विहङ्गमेषूत्पत्स्यत इति, तुशब्द एवकारार्थः, अस्थानप्रयुक्तश्च, एवं तु द्रष्टव्यः-धारयत्येव, अनेन च धार-18॥६॥ यत्येव यदा तदा द्रव्यविहङ्गमो भवति नोपभुत इत्येतदावेदितं भवति, द्रव्यमिति चात्र कर्मपुद्गलद्रव्यं प्रासुकं न पुनराधय सूत्रस्पर्शिकनिर्यक्कम प्रतिपादपनाह दुवितो ॥ १९७ ॥ हेतूभूतेन । ASS -5 Jain Education a l For Private Personal use only Mr.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy