SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ दश. १२ Jain Education व्याख्या- किं नु गृहिणो 'राध्यन्ति' पाकं निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं ?, 'मा श्रमणा भगवन्तः क्लामन्ननाहारा' इति पूर्ववदिति गाथार्थः ॥ १०९ ॥ न चैतदित्थमित्यभिप्रायः ॥ अत्राह समणऽणुकंपनिमित्तं पुण्णनिमित्तं च गिनिवासी उ । कोइ भणिज्जा पागं करेंति सो भण्णइ न जम्हा ॥ ११० ॥ कंतारे दुब्भिकखे आके वा महइ समुप्पन्ने । रत्तिं समणसुविहिया सव्वाहारं न भुंजंति ॥ १११ ॥ अह कीस पुण गिहत्था रतिं आयरतरेण रंधति । समणेहिं सुविहिएहिं चउव्विहाहारविरएहिं ? ।। ११२ ।। व्याख्या- श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम्, न ह्येते हिरण्यग्रहणादिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थ पार्क निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, स भण्यते नैतदेवम्, कुतः ? - यस्मात् 'कान्तारे' अरण्यादौ 'दुर्भिक्षे' अन्नाकाले 'आतङ्के वा' ज्वरादौ महति समुत्पन्ने सति रात्रौ श्रमणाः 'सुविहिताः' शोभनानुछानाः, किम् ? - 'सर्वाहारम्' ओदनादि न भुञ्जते ॥ अथ किमिति पुनर्गृहस्थाः तत्रापि रात्रौ 'आदरतरेण' अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्भिरिति गाथायार्थः ॥ ११०-१११११२ ॥ किंच अत्थि बहुगामनगरा समणा जत्थ न उवैति न वसंति । तत्थवि रंधति गिही पगई एसा गिहत्थाणं ॥ ११३ ॥ १ प्राकृतवाक्यप्रतिरूपकमिति, तत्र च सप्तम्यर्थे तृतीया, हेतुत्वापेक्षया वा. For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy