________________
१ द्रुमपुष्पिका दृष्टान्त
शुद्धिः
दशवैकान्त रोपात्तस्य 'उदयेन' विपाकानुभवलक्षणेन पुष्पफलं 'निर्वर्त्तयन्ति' कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग हारि-वृत्तिः इति भावनीयम् । इदं चान्यत्कारणं, वक्ष्यमाणमिति गाथार्थः ॥१०५॥
अत्थि बहू वणसंडा भमरा जत्थ न उवेति न वसंति । तत्थऽवि पुष्फति दुमा पगई एसा दुमगणाणं ॥ १०६ ॥ व्याख्या-सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव, तथापि पुष्प्यन्ति द्रुमाः, अतः 'प्रकृतिरेषा' खभाव एष द्रुमगणानामिति गाथार्थः ॥१०६ ॥ अत्राह
जइ पगई कीस पुणो सव्वं कालं न देंति पुष्फफलं । जं काले पुष्फफलं दयंति गुरुराह अत एव ॥ १० ॥
पगई एस दुमाणं जं उउसमयम्मि आगए संते । पुष्फंति पायवगणा फलं च कालेण बंधति ॥ १०८॥ व्याख्या-यदि प्रकृतिः किमिति पुनः सर्वकालं 'न ददति' न प्रयच्छन्ति, किम् ?-पुष्पफलम् ?, एवमाशयाह-यद्-यस्मात्काले नियत एव पुष्पफलं ददति, गुरुराह-अत एव-अस्मादेव हेतोः ॥ प्रकृतिरेषा दुमाणां यद् 'ऋतुसमये वसन्तादावागते सति पुष्प्यन्ति 'पादपगणा' वृक्षसङ्घाताः तथा फलं च कालेन बन्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्वयार्थः ॥ १०७-१०८ ॥ साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वनाह
किं नु गिही रंधंती समणाणं कारणा अहासमयं । मा समणा भगवंतो किलामएज्जा अणाहारा ।। १०९॥
JainEducation ints
For Private & Personal Use Only