SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Jain Education र्भिक्षं ?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तं च- "सदैव देवाः सद्गावो, ब्राह्मणाश्च क्रियापराः । यतयः साधवश्चैव विद्यन्ते स्थितिहेतवः ॥ १ ॥" इत्यादि, अथ भवेदिन्द्र इति, किम् ?, वर्षति, ततः किं 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते ?, आदिशब्दादिग्दाहादिपरिग्रह', 'तस्य' इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थ, तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः ॥ १०१-१०२ ॥ किं चकिं चदुमा पुति भमराणं कारणा अहासमयं । मा भमरमहुयरिगणा किलामएज्जा अणाहारा ॥ १०३ ॥ व्याख्या- किं च द्रुमाः पुष्प्यन्ति भ्रमराणां 'कारणात्' कारणेन 'यथासमयं यथाकालं मा भ्रमरमधुकरीगणा: 'क्लामन' (क्ामिषुः ) ग्लानिं प्रतिपद्येरन्, 'अनाहारा' अविद्यमानाहाराः सन्तः, काक्का नैवैतदित्थमिति गाथार्थः ॥ १०३ ॥ साम्प्रतं पराभिप्रायमाह कस्सइ बुद्धी एसा वित्ती उवकप्पिया पयावइणा । सत्ताणं तेण दुमा पुष्पंति महुयरिगणट्ठा ॥ १०४ ॥ व्याख्या - अथ 'कस्यचिद्बुद्धिः कस्यचिदभिप्रायः स्याद्यदुत- एषा वृत्तिरुपकल्पिता, केन ? - प्रजापतिना, केषाम् ? - 'सत्त्वानां' प्राणिनां तेन कारणेन द्रुमाः पुष्प्यन्ति मधुकरीगणार्थमेवेति गाथार्थः ॥ १०४ ॥ अत्रोत्तरमाह - तं न भवइ जेण दुमा नामागोयस्स पुब्वविहियस्स । उदएणं पुप्फफलं निवत्तयंती इमं चऽन्नं ॥ १०५ ॥ व्याख्या - यदुक्तं परेण तन्न भवति, कुत इत्याह-येन द्रुमा नामगोत्रस्य कर्मण: 'पूर्वविहितस्य' जन्मा For Private & Personal Use Only ভ w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy