________________
दशवैका ० हारि-वृत्तिः
॥ ६५ ॥
वासइ न तणस्स कए न तणं वडूइ कए मयकुलाणं । न य रुक्खा सयसाला फुल्लन्ति कए महुयराणं ॥ ९९ ॥ व्याख्या-वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानाम् - अर्थाय तथा नच वृक्षाः शतशाखा: पुष्प्यन्ति 'कृते' अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थ पाकं निर्वर्तयन्तीत्यभिप्राय इति गाथार्थः ।। ९९ ।। अत्र पुनरप्याह
अग्गमि हवी हूइ आइचो तेण पीणिओ संतो । वरिसइ पयाहियाए तेणोसहिओ परोहंति ।। १०० ।।
व्याख्या - इह यदुक्तं "वर्षति न तृणार्थ 'मित्यादि, तदसाधु, यस्मादग्नौ हविर्द्धयते, आदित्यः 'तेन' हविषा घृतेन | प्रीणितः सन् वर्षति, किमर्थम् ? - 'प्रजाहितार्थं लोकहिताय, 'तेन' वर्षितेन, किम् ?, औषध्यः 'प्ररोहन्ति' उद्गच्छन्ति, तथा चोक्तम्- “अग्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः ॥ १ ॥” इति गाथार्थः ॥ १०० ॥ अधुनैतत्परिहारायेदमाह
किं दुब्भिक्खं जायइ ? जइ एवं अह भवे दुरिडं तु । किं जायइ सव्वत्था दुब्भिक्खं अह् भवे इंदो ? ॥ १०१ ॥ वासइ तो किं विग्धं निग्धायाईहिं जायए तस्स । अह् वासइ उउसमए न वासई तो तणट्ठाए ॥ १०२ ॥ व्याख्या- किं दुर्भिक्षं जायते यद्येवम् ?, कोऽभिप्रायः ? - तद्धविः सदा हूयत एव ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद्' 'दुरिष्टं तु' दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरम् - किं जायते सर्वत्र दु
१ वर्षातृणानि तस्य प्रतिषेधे इत्येतच्च भाष्यकृता प्राक् प्रपञ्चितमेवेति वचनात् प्रतीयते यदुतैता एकोनविंशतिर्भाष्यगाथाः.
Jain Education International
For Private & Personal Use Only
१ द्रुमपुष्पिका०
दृष्टान्त
विशुद्धिः
॥ ६५ ॥
ww.jainelibrary.org