________________
Jain Education
न्तविशुद्धिमाह - 'न च' नैव 'पुष्पं' प्राग्निरूपितखरूपं 'क्लामयति' पीडयति, 'सच' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति सूत्रसमुदायार्थः ॥ अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाहजह भ्रमरोति य एत्थं दिहंतो होइ आहरणदेसे । चंदमुहि दारिगेयं सोमत्तवहारण ण सेसं ॥ ९६ ॥
व्याख्या- यथा भ्रमर इति च 'अत्र' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेषं-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ॥ ९६ ॥
एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं । गहणं दिनंतविसुद्धि सुत्त भणिया इमा चन्ना ॥ ९७ ॥ व्याख्या एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं गृह्यत इति शेषः, न 'शेषाणाम्' अविरत्यादीनां भ्रमरध|र्माणां ग्रहणं, दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनिर्युक्ताविति गाथार्थः॥९७॥
एत्थ भणिज्ज कोई समणाणं कीरए सुविहियाणं । पागोवजीविणो त्ति य लिप्पंतारंभदोसेणं ॥ ९८ ॥
arrer - अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा - श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भ वति-यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते 'सुविहिताना' मिति तपखिनां गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इतिकृत्वा लिप्यन्ते आरम्भदोषेण - आहारकर - क्रियाफलेनेत्यर्थः तथा च लौकिका अप्याहुः - 'क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचि - त्तेन, इत्येष त्रिविधो वधः ॥ १ ॥ इति गाथार्थः ॥ ९८ ॥ साम्प्रतमेतत्परिहरणाय गुरुराह—
For Private & Personal Use Only
www.jainelibrary.org