SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ष्पिका दशबैका हारि-वृत्तिः ॥१४॥ हेतुविशुद्धिः याजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः॥ एसा हेउविसुद्धी दिद्रुतो तस्स चेव य विसुद्धी । सुत्ते भणिया उ फुडा सुत्तफासे उ इयमन्ना ॥ ४॥ (भाष्यम् ) ॥ व्याख्या-एषा' अनन्तरोक्ता 'हेतुविशुद्धि प्राग्निरूपितशब्दार्था, अधुना 'दृष्टान्त' प्राग्निरूपितशब्दार्थः, तथा 'तस्यैव च' दृष्टान्तस्य विशुद्धिः, किम् ?-सूत्रे भणिता, उक्तैव 'स्फुटा' स्पष्टा ॥ तच्चेदं सूत्रम् जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । ण य पुप्पं किलामेइ, सो अ पीणेइ अप्पयं ॥२॥ अस्य व्याख्या-अत्राह-अथ कस्मादशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम् , कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः। तत्र 'यथा येन प्रकारेण 'दुमस्य' प्राग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये (उपमेये) गृहिदुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमर' चतुरिन्द्रियविशेषः, किम् ?-'आपिबति' मर्यादया पिबत्यापिबति, कम् ?-रस्यत इति रसस्तं-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति, एतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति, उक्तं च 'सूत्रस्पर्शे त्वियमन्येति । अधुना दृष्टा १ उदाहरणभेदचतुष्के प्रथमभेदगतं, ख्यापितं च प्राक् एतत् २ भाष्यगतचतुर्थगाथायाम्. ॥५४॥ Jain Education For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy