SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Education I इति, अयं च प्राग् व्याख्यात एव, शुद्धिमभिधातुकामेन च भाष्यकृता पुनरुपन्यस्त इति, अत एवाह - है - तोर्विशुद्धिर्हेतुविशुद्धिः, विषयविभाषाव्यवस्थापनं विशुद्धि', 'इमा' इयं 'तत्र' प्रयोग इति गाथार्थः ॥ जं भत्तपाणडवगरणवसहिसयणासणासु जयंति । फासुयअकयअकारियअणणुमयाणुद्दिट्टभोई य || २ || ( भाष्यम् ) ॥ व्याख्या- 'यद्' यस्मात्, भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किम् ? - 'यतन्ते' प्रयत्नं कुर्वन्ति, कथमेतदेवमित्यत्राह - यस्मात् प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्रासवः प्राणाः प्रगता असवः - प्राणा यस्मादिति प्रासुकं - निर्जीवम्, तच्च स्वकृ| तमपि भवत्यत आह-अकृतम्, तदपि कारितमपि भवत्यत आह-अकारितम्, तदप्यनुमतमपि भवत्यत आह- अननुमतम्, तदप्युद्दिष्टमपि भवति यावदर्थिकादि न च तदिष्यत इत्यत आह-अनुद्दिष्टमिति । एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणसूत्रादवगन्तव्य इति गाथार्थः ॥ तदन्ये पुनः किमित्यत आह अफासुयकयकारियअणुमयउद्दि भोइणो हंदि । तसथावरहिंसाए जणा अकुसला उ लिप्पंति ॥ ३ ॥ ( भाष्यम् ) ॥ व्याख्या - अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ? -त्रसन्तीति त्रसाः - द्वीन्द्रियादयः तिष्ठन्तीति स्थावराः - पृथिव्यादयः तेषां हिंसा - प्राणव्यपरोपणलक्षणा तया 'जना:' प्राणिनः 'अकुशला': अनिपुणाः स्थूलमतयश्वरकादयो 'लिप्यन्ते' सम्बध्यन्त इत्यर्थः, इह च हिंसात्रि For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy