________________
दशवैका ० हारि-वृत्तिः
॥ ६३ ॥
Jain Education
भावात् । उपायग्रहणं च साभिप्रायकम्, शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठानं, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति गाथार्थः ॥ ९३ ॥ अत्राह—
वि य धम्मसो धम्मं निययं च ते पसंसंति । नणु भणिओ सावज्जो कुतित्थिधम्मो जिणवरेहिं ॥ ९४ ॥
व्याख्या – 'तेष्वपि च' तन्त्रान्तरीयधर्मेषु, किम् ? - धर्मशब्दो लोके रूढः, तथा धर्म 'निजं च' आत्मीयमेव यथातथं ते 'प्रशंसन्ति' स्तुवन्ति, ततश्च कथमेतदिति, अत्रोच्यते, 'नन्वि'त्यक्षमायां 'भणित' उक्तः पूर्व 'सावद्यः' सपाप: 'कुतीर्थिकधर्मः' चरकादिधर्मः । कैः ? - 'जिनवरैः' तीर्थकरैः "ण जिणेहिं उ पसत्थो" इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ ९४ ॥ तथा
जो तेसु धम्मसदो सो उवयारेण निच्छएण इहं । जह सीहसद्दु सीहे पाहण्णुवयारओऽण्णत्थ ॥ ९५ ॥ व्याख्या- यः 'तेषु' तत्रान्तरीयधर्मेषु धर्मशब्दः स 'उपचारेण' अपरमार्थेन, निश्चयेन 'अत्र' जिनशासने, कथम् ? - यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येन, 'उपचारत:' उपचारेण 'अन्यत्र' माणवकादौ, यथा सिंहो माणवकः, उपचारनिमित्तं च शौर्यक्रौर्यादयः धर्मे त्वहिंसायभिधानादय इति गाथार्थः ॥ ९५ ॥
एस पइन्नासुद्धी हेऊ अहिंसाइएस पंचसुवि । सब्भावेण जयंती हे विसुद्धी इमा तत्थ ॥ १ ॥ ( भाष्यम् ) ॥ व्याख्या—'एषा' उक्तखरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धि:, हेतुरहिंसादिषु पञ्चस्खपि सद्भावेन यतन्त
For Private & Personal Use Only
१ द्रुमपु•
ष्पिका०
प्रतिज्ञा
शुद्धिः
॥ ६३ ॥
jainelibrary.org