________________
SARAS
दीनामिव भावनीयमिति, अत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति ॥ साम्प्रतमधिकृतदशावयवप्रतिपादनायाह
बिइयपइन्ना जिणसासणंमि साहेति साहवो धम्मं । हेऊ जम्हा सब्भाविएसुऽहिंसाइसु जयंति ॥ ९२ ॥ व्याख्या-द्वितीया पश्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयम्-'जिनशासने' जिनप्रवचने, किम् ?–'साधयन्ति' निष्पादयन्ति 'साधवः' प्रव्रजिताः 'धर्म' प्राग्निरूपितशब्दार्थम् । इह च साधव इति धम्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः । हेतुनिर्देशमाह-हेतुर्यस्मात् 'साद्भाविकेषु' पारमार्थिकेषु निरुपचरितेष्वर्थेष्वित्यर्थः अहिंसादिषु, आदिशब्दान्मषावादादिविरतिपरिग्रहः, अन्ये तु व्याचक्षते–'सम्भाविएहिं ति सद्भावेन निरुपचरितसकलदुःखक्षयायैवेत्यर्थः 'यतन्ते' प्रयत्नं कुर्वन्ति इति गाथार्थः॥ ९२ ॥ साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आह
जह जिणसासणनिरया धम्म पालेंति साहवो सुद्धं । न कुतित्थिएसु एवं दीसइ परिवालणोवाओ ॥ ९३॥ व्याख्या-'यथा' येन प्रकारेण जिनशासननिरता-निश्चयेन रता 'धर्म प्राग्निरूपितशब्दार्थ 'पालयन्ति' रक्षन्ति 'साधवः' प्रव्रजिताः षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च 'शुद्धम्' अकलङ्क, नैवं तत्रान्तरीयाः, यस्मान्न कुतीर्थिकेषु, 'एवं' यथा साधुषु दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्य
H
RESS
For Private Personal use only