________________
दशवैका ० हारि-वृत्तिः
॥ ६२ ॥
Jain Education
अर्शआदेराकृतिगणत्वादच्प्रत्ययः अगारा-गृहस्थाः न अगारा - अनगारा, चशब्दः समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पा, रागादिजेतृत्वाज्जिनास्तच्छिष्याः - तद्विनेया गौतमादयः, आह- अर्हदादीनां परोक्षत्वात् दृष्टान्तत्वमेवायुक्तम्, कथं चैतद्विनिश्चीयते ? यथा ते देवादिपूजिता इति, उच्यते, यत्तावदुक्तं 'परोक्षत्वादिति, तद्दुष्टम्, सूत्रस्य त्रिकालगोचरत्वात् कदाचित्प्रत्यक्षत्वात्, देवादिपूजिता इति च एतद्विनिश्चयायाह-वृत्तम्- अतिक्रान्तम् अनुवर्त्तमानेन - साम्प्रतकालभाविना ज्ञायते कथमित्यत आह- 'यद्' यस्माद् नरपतयोऽपि - राजानोऽपि प्रणमन्ति, इदानीमपि भावसाधुं ज्ञानादिगुणयुक्तमिति गम्यते । अनेन गुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः ॥ ९० ॥
उवसंहारो देवा जह तह रायावि पणमइ सुधम्मं । तम्हा धम्मो मंगलमुक्किट्टमिइ अ निगमणं ॥ ९१ ॥
व्याख्या – 'उपसंहारः' उपनयः स चायम् - देवा यथा तीर्थकरादीन् तथा राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति । यस्मादेवं तस्माद्देवादिपूजितत्वाद् धर्मो मङ्गलमुत्कृष्टमिति च निगमनम् । 'प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन' मिति गाथार्थः ॥ ९१ ॥ उक्तं पञ्चावयवम्, एतदभिधानाश्चार्थाधिकारोऽपि धर्मप्रशंसा । साम्प्रतं दशावयवं तथा स चेहैव जिनशासन इत्यधिकारं चोपदर्शयति-इह च दशावयवाः - प्रतिज्ञादय एव प्रतिज्ञादिशुद्धिसहिता भवन्ति । अवयवत्वं च तच्छुद्धीनामधिकृत वाक्यार्थोपकारकत्वेन प्रतिज्ञा
tional
For Private & Personal Use Only
१ द्रुमपुष्पिका०
पञ्चावयव
॥ ६२ ॥
www.jainelibrary.org