SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ RANA अत्रापि चादिशब्दाद गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इंति। न च भाचमनोऽधिकृत्यादृष्टान्तेऽस्ति कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं मङ्गलं यथाऽहंदादयस्तथा च देवादिपूजितो धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं गावयषद्वयं सू-तू ब्रोक्तावयवत्रयाविनाभूतमितिकृत्वा तेन सूचितमवगन्तव्यमित्यलं विस्तरेण ॥८८॥ साम्प्रतमत्तानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिपादयन्नाह __ धम्मो गुणा अहिंसाइया उ ते परममंगल पइन्ना । देवावि लोगपुजा पणमंति सुधम्ममिइ हेऊ ॥ ८९ ॥ व्याख्या-धर्म:' प्राग्निरूपितशब्दार्थः, स च क हत्याह-गुणा अहिंसादया, आदिशब्दात् संयमतपापदारिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्ध-18 विद्याधरनरपतिपरिग्रहः, 'लोकपूज्या' लोकपूजनीयाः 'प्रणमंति' नमस्कुर्वन्ति, कम् ?–'सुधर्माण' शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति माथार्थः ।। ८९॥ दिलुतो अरहंता अणगारा य बहवो उ जिणसीसा । वत्तणुवत्ते नजइ जं नरवइणोऽवि पणमंति ॥ ९ ॥ व्याख्या दृष्टान्तः' प्राग्निरूपितशब्दार्थः, स चाशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यहन्तः, तथा अनगाराश्च बहव एव जिनशिष्या इति, न गच्छन्तीत्यगा-वृक्षास्तैः कृतमगारं-वृहं त्वचेषां विचत इति १द्रव्यमनःसत्त्वात् पूर्वावस्थामाधिल वा. Jan Education For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy