________________
Jain Education Inter
सो अत्रेण पुच्छिल - किं जवे किणासि ?, सो भणइ - जेण मुहियाए ण लब्भामि । लौकिकमिदं हेतूपन्यासोदाहरणम्, अनेन च लोकोत्तरमप्याक्षिप्तमवगन्तव्यम्, तत् चरणकरणानुयोगे तावत् यथाह विनेयः-किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियते ?, स वक्तव्यो येन नरकादिषु न कष्टतरा वेदना वेद्यत इति । द्रव्यानुयोगे तु यद्याह कश्चित् किमित्यात्मा न चक्षुरादिभिरुपलभ्यते?, स वक्तव्यो - येनातीन्द्रिय इति । गतं हेतुद्वारम्, तदभिधानाञ्च्चोपन्यासद्वारम्, तदभिधानाचोदाहरणद्वारमिति ॥ ८५ ॥ साम्प्रतं हेतुरुच्यते - तथा
चाह -
अहवावि इमो हेऊ विन्नेओ तत्थिमो चडविअप्पो । जावग थावग वंसग लूसग हेऊ चउत्थो उ ।। ८६ ।।
व्याख्या अथवा तिष्ठतु एष उपन्यासः, उदाहरणचरमभेदलक्षणो हेतु:, 'अपिः' सम्भावने, किं सम्भा वयति', 'इमों' अयं अन्यद्वार एवोपन्यस्तत्वात्तदुपन्यासनान्तरीयकत्वेन गुणभूतत्वादहेतुरपि, किं तु 'हेऊ विण्णेओ तत्थिमो'त्ति व्यवहितोपन्यासात् तत्रायं वक्ष्यमाणो हेतुर्विज्ञेयः 'चतुर्विकल्प' इति चतुर्भेद', विकल्पानुपदर्शयति-यापकः स्थापकः व्यंसकः लूषकः हेतुः चतुर्थस्तु । अन्ये त्वेवं पठन्ति - ' हे उत्ति दारमहुणा, चउव्विहो सो उ होइ नायव्वों'न्ति, अत्राप्युक्तमुदाहरणम्, हेतुरित्येतद् द्वारमधुना तुशब्दस्य पुनः शब्दा
१ सोऽन्येन पृच्छ्यते-किं यवान् क्रीणासि ?, स भणति - येन मुधिकया न लभे. (१) पूर्वोके (२) पूर्वोक्त० (३) अनन्तरभावित्वात्. (४) प्रस्तुत उदाहरण चरम्भेदरूपः.
For Private & Personal Use Only
jainelibrary.org