SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति । गतं तदस्तूपन्यासद्वारम् , अधुना तदन्यवस्तूपन्यासद्वारमभिधातुकाम आह तयअन्नवत्थुगंमिवि अन्नत्ते होइ एगत्तं ।। ८४ ।। व्याख्या-तदन्यवस्तुकेऽपि उदाहरणे, किम् ?-अन्यत्वे भवत्येकत्वमित्यक्षरार्थःभावार्थस्त्वयम-कश्चिदाह इह यस्य वादिनोऽन्यो जीवः अन्यच्च शरीरमिति, तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपि तद्वाच्याविशिष्टत्वेनैकत्वप्रसङ्ग इति, तस्य जीवशरीरापेक्षया तदन्यवस्तूपन्यासेन परिहारः कर्त्तव्यः, कथम् !, नन्वेवं सति सर्व भावानां परमाणुयणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यः परमाणुरन्यो द्विप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्यावि-| शिष्टत्वात्, तेषां च तद्वाच्यत्वेनाविशिष्टत्वादिति, तस्मादन्यो जीवोऽन्यच्छरीरमित्येतदेव शोभनमिति । एतद्रव्यानुयोगे, अनेन चेतरस्याप्याक्षेपः, तत्र चरणकरणानुयोगे 'न मांसभक्षण' इत्यादावेव कुग्राहे तदन्यवस्तूपन्यासेन परिहारः, कथम् ?, 'न हिंस्यात् सर्वाणि भूतानी'त्येतदेवं विरुध्यते इति । लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहारः-जहा जाणि पुण पाडिऊण पाडिऊण कोइ खाइ वीणेइ वा ताणि किं हवंति त्ति ? । गतं तदन्यवस्तूपन्यासद्वारम् , साम्प्रतं प्रतिनिभमभिधित्सुराह १°मतेन. २ नैयायिकानां. ३ वादिनः. ४ जीवशरीरयोः. ५ अन्यशब्दवाच्याभेदेन. ६ यथा यानि पुनः पातयित्वा पातयित्वा कश्चित्खादति (अव) चिनुते वा तानि के भवन्ति ?. Jain Education Intematona For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy