________________
Jain Education Inte
मिति न्यायात् । तत्र चरणकरणानुयोगेन "णेवं अहम्मत्तं कायव्वं किंचि भाणियव्वं वा । थोवगुणं बहु| दोसं विसेसओ ठाणपत्तेणं ॥ १ ॥ जम्हा सो अन्नेसिंपि आलंबणं होई' । द्रव्यानुयोगे तु - 'वादम्मि तहारूवे विज्ञाय बलेण पवयणट्ठाए । कुज्जा सावज्जं पिहु जह मोरीणउलिमादीसु ॥ १ ॥ सो परिवायगो विलक्खीकओ त्ति' । उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति । गतमधर्मयुक्तद्वारम् अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह
पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो । गोविंदवायगोऽविय जह परपक्खं नियत्तेइ ॥ ८२ ॥
व्याख्या- 'प्रतिलोमें' उदाहरणदोषे यथा 'अभयः' अभयकुमारः प्रद्योतं राजानं हृतवान् अपहृतः सन्निति, एतद् ज्ञापकम्, इह च त्रिकाल गोचरसूत्रप्रदर्शनार्थे वर्त्तमाननिर्देश इत्यक्षरार्थः । भावार्थः कथानकादवसेयः, तच्च यथाssवश्यके शिक्षायां तथैव द्रष्टव्यमिति । एवं तावल्लौकिकं प्रतिलोमं, लोकोत्तरं तु द्रव्यानुयोगमधिकृत्य सूचयन्नाह - 'गोविंदे'त्यादि गाथादलम्, अनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यन्तग्रहणे तन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्, तत्र चरणकरणे 'णो किंचि य पडिलोमं कायव्वं
१ नैवमधर्मयुक्तं कर्त्तव्यं किञ्चिद् भणितव्यं वा । स्तोकगुणं बहुदोषं विशेषतः स्थानप्राप्तेन ॥ १ ॥ यस्मात् सोऽन्येषामप्यालम्बनं भवति । वादे तथारूपे वि द्याया बलेन प्रवचनार्थाय । कुर्यात् सावयमपि यथा मयूरीनकुल्यादिभिः ॥ १ ॥ स परिवाद् बिलक्षीकृतः इति २ नो किञ्चिदपि प्रतिलोमं कर्त्तव्यं
For Private & Personal Use Only
ainelibrary.org