SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सर्व शरीरमादिना सह वर्त्तते तथाऽपि सादित्वविशेषणान्यथाऽनुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तम्-उत्सेधबहुलमिति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादीति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिन: शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनु| रूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मण्डलं तत्कुब्ज संस्थान, यत्र पुनरुदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्वामनं, यत्र सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम् , उक्तश्च- समचउरंसे नग्गोहमंडले साइ खुज वामणए । हुंडेवि य संठाणे जीवाणं छम्मुणेयव्वा ॥ १॥ तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकोट्टं च । हेढिल्लकायमडहं सव्वत्थासंठियं हुंडं ॥ २॥" लेश्याद्वारे षडपि लेश्याः, शुक्लेश्याया अपि सम्भवात् , समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवात् , सञ्जिद्वारे सज्ञिनो नो असब्जिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रीपुरुषयोदयोरप्यमीषां भावात् , पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामन:पर्यात्योरेकत्वेन वि-| वक्षणात् , अपर्याप्तिचिन्तायां पञ्चापर्याप्तयः, दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिध्यादृष्टयश्च, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केपाश्चिद्भावात् , ज्ञानद्वारे त्रिज्ञानिनोऽपि, अवधिज्ञानस्यापि केषाश्चिद्भावात् , अज्ञानचिन्तायामज्ञानिनोऽपि, विभङ्गस्यापि केषाञ्चित्सम्भवात् , अवधिविभङ्गौ च सम्यग्मिध्यादृष्टिभेदेन प्रतिपत्तव्यो, उक्तश्च-स १ समचतुरस्र न्यग्रोधपरिमण्डलं सादि कुन्जं वामनम् । हुण्डमपि च संस्थानं जीवानां षड् ज्ञातव्यानि ॥१॥ तुल्यं बहुविस्तारं उत्सेधबहुलं च मडभकोष्ठं च । अधस्तनकायमडर्भ सर्वत्रासंस्थितं हुण्डम् ॥ २॥ जी०च०८ Jain Education in For Private Personal Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy