SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ Jain Education In भव्यो मुक्तिगामी पूर्वमप्रतिपन्नोपशमश्रेणिः, सादिसपर्यवसितः पूर्व प्रतिपन्नोपशमश्रेणिः, उपशमश्रेणि प्रतिपद्य वेदोपशमोत्तरकालावेदकत्वमनुभूय श्रेणिसमाप्तौ भवक्षयादपान्तराले मरणतो वा प्रतिपततो वेदोदये पुनः सवेदकत्वोपपत्तेः, तत्र योऽसौ सादिसपर्यवसितो जघन्येनान्तर्मुहूर्त्त श्रेणिसमाप्तौ सवेदकत्वे सति पुनरन्तर्मुहूर्त्तेन श्रेणिप्रतिपत्ताववेदकत्वभावात्, आह-किमेकस्मिन् जन्मनि वेलाद्वयमुपशमश्रेणिलाभो भवति ? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकारः - "नैकस्मिन् जन्मनि उपशमश्रेणिः क्षपकश्रेणिश्च जायते, उपशमश्रेणिद्वयं तु भवत्येवे" ति, तत एवमुपपद्यते - जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं तमेव कालक्षेत्राभ्यां निरूपयतिअनन्ता उत्सर्पिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त्त देशोनम्, एतावत: कालादृर्द्ध पूर्वप्रतिपन्नोपशमश्रेणेर| वश्यं मुक्तत्यासन्नतया श्रेणिप्रतिपत्ताववेदकत्वभावात् ॥ 'अवेदए णं भंते!' इत्यादि प्रनसूत्रं पाठसिद्धं, भगवानाह - गौतम! अवेदको द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः [समयानन्तरं] क्षीणवेद:, सादिको वा सपर्यवसित-उपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्येनैकं समयं, उपशमश्रेणि प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपत्तेः, उत्कर्पतोऽन्तर्मुहूर्त्तमुपशान्तवेदश्रेणिकालं तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् ॥ अन्तरं प्रतिपिपादयिपुराह - 'सवेदगस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात्, अनादिकस्य सपर्यवसितस्यापि नास्त्यन्तरं, अनादिसपर्यवसितो ह्यपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेिदो न च क्षीणवेदस्य पुनः सवेदकत्वं प्रतिपाताभावात्, सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्येनैकं समयमन्तरं, द्वितीयवा रमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरं कस्यापि मरणसम्भवान्, उत्कर्षेणान्तर्मुहूर्त्त द्वितीयं वारमुपशमश्रेणिं प्रतिपन्नस्योपशा For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy