________________
Jain Education
तेक्वाइया वाउकाइया वणस्सइकाइया बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया | ठिती सव्वेसिं भाणिव्वा ॥ पुढविकाइयाणं संचिट्ठणा पुढविकालो जाव वाउक्काइयाणं, वणस्सईणं वणस्स - तिकालो, बेइंडिया तेइंदिया चउरिंदिया संखेनं कालं, पंचेंद्रियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अणतं कालं, वणस्सतिकाइयाणं असंखेज्जं कालं ॥ अप्पाबहुगं, सव्वत्थोवा पंचिंदिया चरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया उक्काइया असंखे० पुढविका० आउ० वाउ० विसेसाहिया वणस्सतिकाइया अनंतगुणा । सेत्तं णवविधा संसारसमावण्णा जीवा पण्णत्ता ॥ ( सू० २४२ ) णवविपडिवत्ती समत्ता ॥
'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - पृथिवीकायिका अष्कायि| कास्तेजस्कायिका वायुकायिका वनस्पतिकायिका द्वीन्द्रिया स्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ॥ साम्प्रतमेतेषां स्थितिनिरूपणार्थं सूत्रनवकमाह – 'पुढविक्काइयस्स णं भंते!' इत्यादि, एष सङ्क्षेपार्थ:-सर्वत्रापि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अष्कायिकस्य सप्तवर्षसहस्राणि तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिका थिकस्य दशवर्षसहस्राणि द्वीन्द्रियस्य द्वादश संवत्सराणि त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रति कार्यस्थितिप्रतिपादनार्थं सूत्रनवकमाह - ' पुढविक्काइए णं भंते!' इत्यादि, सर्वत्र जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायस्यासङ्ख्येयं कालमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽ
For Private & Personal Use Only
* %% %
www.jainelibrary.org