SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ येयगुणाः, प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्तका: प्रदेशार्थतया निगोदानां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसयेयगुणा: निगोदानामसङ्ख्येयगुणत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता: प्रदेशार्थतयाऽसयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः एकैकवादरपर्याप्तनिगोदनिश्रया सङ्ख्याऽतीतानां बादरपर्याप्तनिगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसल्या. तगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सवयेयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसद्ध्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्त यो बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणा: प्रतिबादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्या र्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ता द्रव्यार्थतया | सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः प्रतिबादरनिगोदपर्याप्तजीवमसङ्ख्येयानां लोकाकाशप्रदेशप्रमाणानां प्रदेशानां |भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सहयेयगुणाः, युक्तिरत्र निगोदजीवानां प्रदेशार्थतया सङ्ख्येयगुणचिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यः प्रदेशार्थतया चिन्वि-18 जी०७२ Jain Education in For Private & Personal Use Only hjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy