________________
BOAMROGAMGAOM
सपिण्यः, एषा कालत: प्ररूपणा, क्षेत्रतोऽर्द्धतृतीयाः पुगलपरावर्ताः । बादरनिगोदसूत्र बादरपृथ्वीकायिकवत् । बादरत्रसकायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वे सागरोपमसहने सयेयवर्षोभ्यधिके । साम्प्रतमेतेषामेवापर्याप्तानी कायस्थिनिं निरूपयन् सूत्रदशकमाह-'बायरअपज्जत्तए णं भंते! बायरअपजत्तएत्ति कालतो' इत्यादि सर्वत्र जघन्येनोत्कर्षेण चान्तर्मुहूर्तम् । अधुनैतेषामेव पर्याप्तानां कायस्थितिमाह-'बायरपजत्तए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्राग्वत् , उत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेक, तत ऊर्द्धमवश्यं बादरस्य सत: पर्याप्तलब्धिविच्युतेः । बादरपृथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सख्येयानि वर्षसहस्राणि, तत ऊर्द्ध तथास्वाभाव्याद् बादरपृथिवीकायस्य सतः पर्याप्तिलब्धिभ्रंशात् । एवमप्कायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: सङ्ख्येयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थितिः त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्य पर्याप्तभवा निरन्तरं कतिपया एवेति सयेयान्येव रात्रिन्दिवानि । वायुकायिकसामान्यबादरवनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि बादरपर्याप्तपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रे च जघन्यत उष्कर्षतश्वान्तर्मुहूर्त, बादरत्रसकायपर्याप्तसूत्रं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तच्च नैरयिकतिर्यग्मनुष्यदेवभवभ्रमणेन पूरयितव्यम् ॥ साम्प्रतमन्तरं प्रतिपिपादयिषुराह
अंतरं बायरस्स बायरवणस्सतिस्स णिओयस्स बायरणिओयस्स एतेसिं चउण्हवि पुढविकालो जाव असंखेज्जा लोया, सेसाणं वणस्सतिकालो। एवं पजत्तगाणं अपजत्तगाणवि अंतरं, ओहे य बायरतरु ओघनिओए बायरणिओए य कालमसंखेनं अंतरंसेसाण वणस्सतिकालो॥ (सू०२३६)
ALLOONAMGARH
A
MALS
Jain Education Intel
For Private & Personel Use Only
T
ainelibrary.org