SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४१८ ॥ Jain Education In 'बादरस्त णं भंते! अंतरं कालतो' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं तमेव कालक्षेत्राभ्यां निरूपयति-असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः, यदेव हि सूक्ष्मस्य सतः कार्यस्थितिपरि| माणं तदेव बादरस्यान्तरपरिमाणं सूक्ष्मस्य च कार्यस्थितिपरिमाणमेतदेवेति । बादरपृथिवीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो वेदितव्यः । एवं वादराकायिकवादरतेजस्कायिकसूत्राण्यपि वक्तव्यानि । सामान्यतो बादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं स चासङ्ख्येयः कालः पृथिवीकालो वेदितव्यः, स चैवम् - असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत्, बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् । एवमपर्यातविषया दशसूत्री पर्याप्तविषया च दशसूत्री यथोक्तक्रमेण वक्तव्या, नानात्वाभावात् ॥ साम्प्रतमल्पबहुत्वमाह अप्पा सव्वत्थोवा वायरतसकाइया वायरते काइया असंखेज्जगुणा पत्तेयसरीरबादरवणस्सति० असंखेज्जगुणा बायरणिओया असंखे० बायरपुढवि असंखे० आउवाउ असंखेज्जगुणा बायरवणस्वतिकाइया अनंतगुणा बायरा विसेसाहिया १ । एवं अपजत्तगाणवि २ । पजत्तगाणं सव्वत्थोवा बायर उक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीरबायरा असंखेज्जगुणा सेसा तहेब जाव बादरा विसेसाहिया ३ । एतेसि णं भंते! बायराणं पज्जत्तापजत्ताणं कयरे २१, सव्वत्थोवा बायरा पज्जन्त्ता बायरा अपजत्तगा असंखेज्जगुणा, एवं सव्वे जहा बायरतसकाइया ४ । For Private & Personal Use Only ५ प्रतिपत्तौ बादरस्यान्तरं सूक्ष्म बादरयो रल्पबहुत्वं उद्देशः २ सू० २३६ २३७ ॥ ४१८ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy