________________
जी० ७०
Jain Education In
न्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात् एवं सूक्ष्मापर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री कन्या । एवं पर्याप्तविषयाऽपि सप्तसूत्री | साम्प्रतमन्तरं चिचिन्तयिपुराह - 'सुहुमस्स ण' मित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्ते, सूक्ष्मादुद्धृत्य बादरपृथिव्यादावन्तर्मुहूर्त्त स्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात्, उत्कर्षतोऽसङ्ख्येयं कालं, तमेवासयेयं कालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासत्येयो भागः, किमुक्तं भवति ? - अङ्गुलमात्रक्षेत्रस्यासत्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमय मे कैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लेपा भवन्ति तावत्य इति । 'सुहुमपुढविकाइयस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त्त तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवं परिपूर्णपाठ: - 'अणंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पोग्गलपरियट्टा आवलिया असंखेज्जइभागो' अस् व्याख्या पूर्ववत् भावना त्वेवम्-सूक्ष्मपृथिवीकायिको हि सूक्ष्मपृथिवीकायिकभवादुद्धृत्यानन्तर्येण पारम्पर्येण वा वनस्पतिष्वपि मध्ये गच्छति तत्र चोत्कर्षत एतावन्तं कालं तिष्ठतीति भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्कायिकवायुकायिकसूत्राण्यपि वक्तव्यानि । सूक्ष्मवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं स चासङ्ख्येयः कालः पृथिवीकालो वक्तव्यः, स चैवम् — 'असंखेज्जा उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति, सूक्ष्मवनस्पतिकायभवादुद्धृतो हि बादरवनस्पतिषु सूक्ष्मवादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं काल नवस्थानमिति यथोक्तप्रमाणमेवान्तरं, एवं सुक्ष्मनिगोदस्या
For Private & Personal Use Only
www.jainelibrary.org