________________
महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धावारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति बुद्ध्यादीन गुणानिति यदिवा गम्यः शास्त्रप्र-| सिद्धानामष्टादशानां कराणामिति प्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लप्राकारवेष्टितं कर्बटम् , अर्द्धतृतीयगव्यूतान्तामरहितं मडम्ब 'पट्टण'त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टनं यत्पुनः शकटोटकैनोंभिर्वा गम्यं तत्पत्तनं यथा भरुकच्छम् , उक्तं च-"पत्तनं शकटैर्गम्यं, घोटकैनौंभिरेव च । नौ| भिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्षते ॥१॥" द्रोणमुख-प्रायेण जलनिर्गमप्रवेशम् , आकरो-हिरण्याकरादिः आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्ठानं नगरम् , 'एएसि ण' मित्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ णं ति एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति, सा च जघन्यतोऽमुलासङ्ख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम् , उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं द्वादशयोजनप्रमाणदैर्ध्यानुरूपं 'विक्खंभबाहल्लेणं'ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं, समाहारो द्वन्द्वः, तेन, विष्कम्भो-विस्तारो बाहल्यं च स्थूलता, भूमिं दालित्ता णं' विदार्य समुत्तिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यत इति भावः, सा चासञ्जिनी-अमनस्का समूच्छिमत्वात् , मिथ्यादृष्टिः सासादनसम्यक्त्वस्यापि तस्या असम्भवात् , अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्धायुरेव कालं करोति । 'अत्थेगइया अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनाभिधायी, ततो|ऽयमर्थ:-सन्येककाः केचन महोरगा येऽङ्गुलमपि शरीरावगाहनया भवन्ति, इहाङ्गलमुच्छ्याङ्गुलमवसातव्यं, शरीरप्रमाणस्य चिन्त्यमानत्वात् , सन्त्येकका येऽङ्गुलपृथक्त्विका अपि-पृथक्त्वं द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गुलपृथक्त्वं शरीरावगाहनमानमे
Jain Education in
For Private & Personal Use Only
Mainelibrary.org