________________
प्रतिपत्तौ संमूछिमपञ्चेन्द्रियतिर्यश्चः सू० ३६
श्रीजीवा- शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिन:-स्फटाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ खगतानेकभेदसूचकी, 'आजीवाभि० सीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तं च-"आसी दाढा तग्गयविसाऽऽसीविसा मुणेयव्वा" मलयगि- इति, दृष्टौ विषं येषां ते दृष्टिविषाः, उग्रं विषं येषां ते उपविषा:, भोग:-शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, खचि. विष रीयावृत्तिः येषां ते त्वग्विषाः, प्राकृतत्वाञ्च 'तयाविसा' इतिपाठः, लाला-मुखात् श्रावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विषं येषां ते
द निश्वासविषा: कृष्णसर्पादयो जातिभेदा लोकत: प्रत्येतव्याः । 'से किं तं आसालिगा' इत्यादि, अथ का सा आसालिगा?, एवं शिष्येण ॥ ३९॥
प्रश्ने कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रश्नभगवन्निर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानत: पठति-'कहि णं भंते !' इत्यादि, क णमिति वाक्यालङ्कारे भदन्त ! परमकल्याणयोगिन् ! आसालिगा संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूछिमैव | तत उक्तं संमूर्छति, भगवानाह-गौतम ! अन्त:-मध्ये मनुष्यक्षेत्रस्य न बहिः, एतावता मनुष्यक्षेत्राद्वहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थः तेषु, एतावता लवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निर्व्याघातेन' व्याघातस्याभावो निर्व्याघातं तेन, हा यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमादिरूपोऽतिदुष्षमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु
कर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु माण्डलिक:-सामान्यराजाऽल्पर्द्धिकः,
PRACTIONARY
॥३९॥
Jain Education Interior
For Private Personal Use Only
NThinelibrary.org