________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ४० ॥
Jain Education In
षामस्तीत्यङ्गुलपृथक्त्विकाः, 'अतोऽनेकस्वरादि' तीकप्रत्ययः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं द्वादशाङ्गुलप्रमाणा वितस्तिः, द्विवितस्तिप्रमाणा रनिर्हस्तः, कुक्षिर्द्विहस्तमाना, धनुर्हस्तचतुष्टयप्रमाणं, गव्यूतं द्विधनुः सहस्रप्रमाणं चत्वारि गव्यूतानि योजनम्, एतचापि वितस्त्यादिकमुच्छ्रयाङ्गुलापेक्षया प्रतिपत्तव्यं, 'ते ण'मित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति तथास्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते ? इत्याशङ्कायामाह - 'ते नत्थि इहं' इत्यादि, 'ते' यथोदितस्वरूपा महोरगाः 'इह' मानुषक्षेत्रे 'नत्थि'ति न सन्ति, किन्तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थलेपूत्पद्यन्ते न जलेषु तत इह न दृश्यन्ते । 'जे यावण्णे तहप्पगारा' इति, येsपि चान्ये तथाप्रकारा अङ्गुलदशकादिशरीरावगाहमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह - 'सेत्तं महोरगा, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाह्यादिरूपास्ते सर्वेऽपि उरः परिसर्पस्थलचर संमूच्छिमपश्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकदम्बकं च जलचरवद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गुलायेयभागप्रमाणा उत्कर्षतो योजनपृथक्त्वं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्पत त्रिपञ्चाशद्वर्षसहस्राणि शेषं तथैव ॥ भुजपरिसर्पप्रतिपादनार्थमाह- 'से किं तमित्यादि, अथ के ते भुजपरिसर्पसंमूच्छिमस्थलचरपश्चेन्द्रियतिर्यग्योनिका ?, सूरिराह-भुजपरिसर्पसंमूच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधाः प्रज्ञप्ताः, 'तह चेव भेओ भाणियन्त्रो' इति, यथा प्रज्ञापनायां तथैव भेदो वक्तव्यः, स चैवम् - "तंजहा - गोहा नउला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्संभरा मंसा मंगुसा पयलाया छीरविरालिया जाहा चउप्पाइया" एते देशविशेषतो वेदितव्याः, 'जे यावण्णे तहप्पगारा' येऽपि चान्ये ' तथाप्रकारा: ' उक्तप्रकारा गोधा
For Private & Personal Use Only
१ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय
तिर्यञ्चः
सू० ३६
॥ ४० ॥
jainelibrary.org