________________
विशिष्टान्यपि पश्च स्थितिसूत्राणि सुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिवर्षसहस्रादीन्यन्तर्मुहूत्तानानि, अपर्याप्तककालेनान्तर्महत्तेन ही नत्वात् ॥ सम्प्रति कायस्थितिप्रतिपादनार्थमाह-एगिदिए णं भंते! एगिदिए'त्ति इत्यादि, जघन्यतोऽन्तर्मुहत्त, तदनन्तरं मत्वा द्वीन्द्रियादिपुत्पादात , उत्कर्षतोऽनन्तं कालं, अनन्तकालमेव निरूपयति-वनस्पतिकालः, वनस्पतिकालस्यैकेन्द्रियत्वात एकेन्द्रियपदे तस्यापि परिग्रहात, वनस्पतिकालश्च प्रागेवोक्तः । द्वित्रिचतुरिन्द्रियसूत्रे सङ्ख्येयं कालं-सयेयानि वर्षसहस्राणि "विगलिंदियाण वाससहस्सा संखे
जा" इति वचनात् , पञ्चेन्द्रियसूत्रे सातिरेकं सागरोपमसहस्रं, तच्च नैरयिकतियपञ्चेन्द्रियमनुष्यदेवभवभ्रमणेन वेदितव्यं एनिमिया पिज्जत्तए णं भंते' इत्यादि, जघन्यत उत्कपतोऽन्तर्मुहूर्तमपर्याप्पलब्धेरेतावत्कालप्रमाणत्वात् , एवं शेषाण्यपि चत्वार्यपर्याप्रकसत्राणिमा नीयानि, एकेन्द्रियपर्याप्तकसूत्रे सद्ध्येयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवीकायस्योत्कषेतो द्वात्रिंशतिवर्षसहस्राणि भवस्थितिः अपका-1 यस्य सप्त वर्षसहस्राणि तेजस्कायस्य त्रीणि रात्रिन्दिवानि वायुकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दश वर्षसहस्राणि, ततो निरन्तरक|तिपयपर्याप्तभवसङ्कलनया सङ्ख्येयान्येव वर्षसहस्राणि घदन्त इति । द्वीन्द्रियपर्याप्तसूत्रे उत्कषेतः सङ्खयेयानि वर्षाणि, द्वीन्द्रियस्य हि उत्कर्षतो भवस्थितिपरिमाणं द्वादश वर्षाणि न च सर्वेष्वपि भवेत्कृष्टा स्थितिस्तत: कतिपयनिरन्तरपर्याप्तभवसङ्कलनयापि सयेयानि वाण्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्ख्येयानि रात्रिन्दिवानि, तेषां भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशदिनमानतया कतिपयनिरन्तरपर्याप्तभवसङ्कलनायामपि सङ्ख्येयानां रात्रिन्दिवानामेव लभ्यमानत्वात् । चतुरिन्द्रियपर्याप्तसूत्रे सयेया मासास्तेषां भवस्थितरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसङ्कलनया सङ्ख्येयानां मासानां प्राप्यमानत्वात् । पञ्चेन्द्रिय पर्याप्तसूत्रे सागरोपमशतपृथक्त्वं सातिरेक, तच्च पूर्ववत् ॥ 'एगिंदियस्स णं भंते ! अंतरं कालतो केवचिरं होइ ?' इति
t coictubex
- ki
जी० ६९
k
Jain Education
anal
For Private & Personel Use Only
www.jainelibrary.org