SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवांभि० ॥ ४०३ ॥ ★ हारकलब्धिकेवलित्वाभावात् एवं तावद्वाच्यं यावदच्युतः कल्पः, 'गेवेज्जगदेवाणंभंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! पञ्च समुद्घाताः प्रज्ञप्तास्तद्यथा-वेदनासमुद्घात इत्यादि, एते च पश्चापि तेषां शक्तितः प्रतिपत्तव्याः, कर्त्तव्यतया तु तत्र मलयगि५ त्रय एव, तथा चाह -- 'नो चेव ण' मित्यादि, नैव कदाचनापि वैक्रियतैजससमुद्घाताभ्यां समवहताः समवहन्यन्ते समवहनिष्यन्ते रीयावृत्तिः * प्रयोजनाभावतः प्रकृत्युपशान्ततया च वैक्रियसमुद्धातारम्भासम्भवात् एवमनुत्तरोपपातिकानामपि वक्तव्यम् || 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं च पिपासा च क्षुत्पिपासं प्रत्यनुभवन्तो 'विहरन्ति' आसते ?, गौतम ! नास्त्येतद् यत्ते क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्तीति, एवं यावदनुत्तरोपपातिकाः ॥ 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः 'एकत्वम्' एकरूपं विकुर्वितुं प्रभवः पृथक्त्वं ? - बहूनीत्यर्थः, भगवानाह - गौतम! एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, एकत्वं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वा त्रीन्द्रियरूपं वा चतुरिन्द्रियरूपं वा पञ्चेन्द्रियरूपं वा विकुर्वितुं पृथक्त्वं विकुर्वन्त एकेन्द्रियरूपाणि यावत्पञ्चेन्द्रियरूपाणि वा, तान्यपि सङ्ख्येयानि विकुर्वन्ति असलेयानिवा, तान्यपि 'सदृशानि ' सजातीयानि वा 'असदृशानि' विजातीयानि 'संबद्धानि' आत्मनि समवेतानि 'असंबद्धानि' आत्मप्रदेशेभ्यः पृथग्भूतानि प्रासादुद्घटपटादीनि यथा चतुर्दशपूर्वधरा घटाद् घटसहस्रं पटापट सहस्रं कुर्वन्ति, विकुर्वित्वा पश्चाद् यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तावद्यावदच्युत कल्पदेवाः, 'गेवेज्जगदेवाणं भंते!' इत्यादि प्रश्नसूत्रं प्रतीतं, भगवानाह - गौतम ! एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि, 'नो चेत्र ण'मित्यादि, नैव पुनः 'सम्पत्त्या ' साक्षाद्वैक्रियरूपसम्पादनेन विकुर्वितवन्तो विकुर्वन्ति विकुर्विष्यन्ति एवमनुत्तरोपपातिका अपि वक्तव्याः ॥ 'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं 'सातसौख्यं' सातं - आह्रादरूपं सौख्यं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ?, Jain Education For Private & Personal Use Only ३ प्रतिपत्तौ वैमानिकानां समुद्र घातादि उद्देशः २ सू० २१७ ॥ १०३॥ www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy