________________
दीनामसम्भवात् , तथा चाह-'नेवी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-ग्रीवाधमनिर्नापि स्नायूंषि-शेष शिराजालं, | किन्तु ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां सङ्घाततया परिणमन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानां ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, देवानां भवप्रत्ययत: प्रायः शुभनामकर्मोदयभावात् , तत्र यदुत्तरवैक्रियं तत् नानासंस्थानसं| स्थितं प्रज्ञप्तं, तस्वेच्छया निवर्त्यमानत्वात् , एवं तावद्वक्तव्यं यावदच्युतः कल्पः, 'गेविजगदेवाण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! अवेयकदेवानामेकं भवधारणीयं शरीरं तच्च समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, एवमनुत्तरोपपातिसूत्रमपि । अधुना वर्णप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि ?, भगवानाहगौतम! कनकत्वगयुक्तानि कनकत्वगिव रक्ता आमा-छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेष
सूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं दलान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च-'कणगत्तयरत्तामा सुरवसभा दोसु होति | कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुकिला देवा ॥१॥" सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! 'से जहानामए-कोटपुडाण वा' इत्यादि विमानवद्भावनीयं, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् । सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि ?,
-CCCCCCCCCADCACANCY
9C-%C3%ACHECACANCHCRACT
Jan Education in
For Private
Personal use only
Minininelibrary.org