SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि-विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः, तानि च मध्यवर्त्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि, उक्तश्च-"पुप्फावकिण्णगा पुण दाहिणतो पच्छिमेण उत्तरतो। पुब्वेण विमाणेदस्स नत्थि पुप्फावकिण्णा उ ॥ १॥" 'तत्थ णमित्यादि, तत्रावलिकाप्रविष्टाऽऽवलिकाबाह्येषु मध्ये यानि तानि आव|लिकाप्रविष्टानि तानि त्रिविधानि प्रज्ञप्तानि, तद्यथा-वृत्तानि व्यस्राणि चतुरस्राणि, इहावलिकाप्रविष्टानि प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपि वृत्तः, तत: पार्श्ववृत्तीनि चतसृष्वपि दिक्षु ज्य स्राणि, तेषां पृष्ठतश्चतसृष्वपि दिक्षु चतुरस्राणि, तेषां पृष्ठतो वृत्तानि, ततोऽपि भूयोऽपि व्यस्राणि ततोऽपि चतुरस्राणीत्येवमावलि३ कापर्यन्तः, तत्र त्रिविधान्येवावलिकाप्रविष्टानि ॥ 'तत्थ णमित्यादि, तत्र यानि आवलिकाबाह्यानि तानि नानासंस्थानसंस्थितानि प्रज्ञप्तानि, तथाहि-कानिचिन्नन्द्यावर्ताकाराणि कानिचित्स्वस्तिकाकाराणि कानिचित् खड्गाकाराणीत्यादि, उक्तञ्च-"आवलियासु विमाणा वट्टा तंसा तहेव चउरंसा । पुप्फावकिण्णगा पुण अणेगविहरूवसंठाणा ॥ १॥" एवं तावद्वाच्यं यावद् प्रैवेयकविमानानि, 13 तान्येव यावदावलिकाप्रविष्टानामावलिकाबाह्यानां च भावात् , परत आवलिकाप्रविष्टान्येव, तथा चाह-'अणुत्तरविमाणा णं भंते! विमाणा किंसंठिया पन्नत्ता?' इत्यादि प्रश्नसूत्रं, भगवानाह-गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा-'बट्टे य तंसा य, मध्यवर्त्तिसर्वार्थसिद्धाख्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपि व्यस्राणि, उक्तञ्च-'एग वढें तंसा चउरो य अणुत्तरविमाणा।"॥अधुनाऽऽयामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह-'सोहम्मीसाणेसुणं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्विमानानि कियद् आयामविकम्भेन कियत्परिक्षेपेण प्रज्ञप्तानि?, भगवानाह-गौतम! द्विविधानि विमानानि प्रज्ञप्तानि, तद्यथा-सङ्ख्येयविस्तृतान्यसङ्ख्येयविस्तृतानि च, in Education For Private Personal Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy