SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवामि० मलयगिरीयावृत्तिः ॥ ३९७ ॥ Jain Education Int णं भंते!' इत्यादि, इह विमानं महानगरकल्पं तस्य चोपरि वनखण्डप्राकाराः प्रासादादयः, तत्र पूर्वेण सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तं, अनेन प्रासादापेक्षया उच्चत्वमुच्यत इति गर्भः, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् ऊर्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि ?, | भगवानाह - गौतम ! पश्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञप्तानि मूलप्रासादादीनां तत्र पञ्च योजनशतोच्छ्रयप्रमाणत्वात् एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः षड् योजनशतानि वक्तव्यानि ब्रह्मलोकलान्तकयोः सप्त योजनशतानि, महाशुक्रसहस्रारयोरष्टौ योजनशतानि, आनतप्राणतारणाच्युतेषु कल्पेषु नव योजनशतानि मैवेयकेषु दश योजनशतानि, अनुत्तरेष्वेकादश योजनशतानि, सर्वत्रापि विमानानि बाहल्योच्चत्वमीलनेन द्वात्रिंशद्योजनशतानि, उपर्युपरि बाह्यमु ( ल्यहा निवदु) चैस्त्वस्य वृद्धिभावात्, उक्तश्च - " सत्तावीससयाई आदिमकप्पेसु पुढविवाहलं । एक्केकहाणि सेसे दुदुगे य दुगे चक्क य ॥ १ ॥ पंचसउच्चत्तेणं आदिमकप्पेसु होंतिय विमाणा । एक्केकवुद्धि सेसे दु दुगे य दुगे चउक्के य || २ || गेवेज्जणुत्तरेसु एसेव कमो उ हाणिवुडीए । एक्केकंमि विमाणा दोन्निवि मिलिया उ बत्तीसं ॥ ३ ॥” [ सप्तविंशतिः शतानि आद्यकल्पयोः पृथ्वीबाहल्यं । एकैकहानिः शेषेषु द्वयोर्द्वयोर्द्वयोश्चतुष्के च ॥ १ ॥ ऊर्ध्वोचत्वेन पञ्च शतानि आद्यकल्पयोर्भवन्ति विमानानि । एकैकवृद्धिः शेषेषु द्वयोर्द्वयोश्च द्विके चतुष्के च ॥ २ ॥ ग्रैवेयकानुत्तरयोरेष एव क्रमो हानिवृद्ध्योः । एकैकस्मिन् विमानानि द्वावपि मीलयित्वा द्वात्रिंशच्छतानि ॥ ३ ॥ ] सम्प्रति संस्थान निरूपणार्थमाह- 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा-आवलिकाप्रविष्टानि आवलिकाबाह्यानि च तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि, For Private & Personal Use Only ३ प्रतिपत्तौ वैमा० उद्देशः १ संहनन संस्थाने सू० २१४ | देववर्णादि सू० २१५ ॥ ३९७ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy