________________
Jain Education In
तं लोमपक्खी । से किं तं समुग्गपक्खी ?, २ एगागारा पण्णत्ता जहा पण्णवणाए, एवं विततपक्खी जाव जे यावन्ने तहप्पगारा ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जन्ता य अपज्जन्त्ता य, णाणत्तं सरीरोगाहणा जह० अंगु० असं० उक्कोसेणं धणुपुहुत्तं ठिती उक्कोसेणं यावत्तरिं वाससहस्साईं, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता, से तं खयरसंमुच्छिमतिरिक्खजोणिया, सेतं संमुच्छिमपंचेंद्रियतिरिक्खजोणिया ॥ ( सू० ३६ ) अथ के ते संमूच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - स्थलचरपञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा - चतुष्पदस्थलचर संमूच्छिम पञ्चेन्द्रिय तिर्यग्योनिकाश्च परिसर्पस्थल चरसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाश्च तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुष्पदस्थलचरसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्प| न्तीति परिसर्पाः - अहिनकुलादयस्ततः पूर्ववत्समासः, चशब्दौ स्वस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराहअथ के ते चतुष्पदस्थलचर संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका ?, सूरिराह - चतुष्पदस्थलचर संमूच्छिम पञ्चेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - 'जहा पण्णवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'ते समासतो दुविहा पण्णत्ता' इत्यादि, ते चैवम् – “एगखुरा दुखुरा गंडीपया सणप्फया । से किं तं एगखुरा ?, एगखुरा अणेगविहा पण्णत्ता, तंजहा - अस्सा अस्सतरा घोडा गद्दभा गोरखुरा कंदलगा सिरिकंदलगा आवत्ता जे यावण्णे तह पगारा, सेतं एगखुरा । से किं तं दुखुरा ?, दुखुरा अणेगविहा पण्णत्ता, तंजहा- उट्टा गोणा गवया महिसा संवरा वराहा अजा एलगा रुरू सरभा चमरी कुरंगा गोक
For Private & Personal Use Only
jainelibrary.org